|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.8. अध्यायः 008
Mahabharata - Virata Parva - Chapter Topics
विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
[वैशम्पायन उवाच। 4-8-0x(3009)(28477)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ 4-8-1(28478)
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ 4-8-2(28479)
कंसविद्रावणकरीमसुराणां क्षयंकरीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ 3 ॥ 4-8-3(28480)
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ॥ 4 ॥ 4-8-4(28481)
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥ 5 ॥ 4-8-5(28482)
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ 6 ॥ 4-8-6(28483)
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ 7 ॥ 4-8-7(28484)
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ 8 ॥ 4-8-8(28485)
भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ 4-8-9(28486)
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ 4-8-10(28487)
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ 4-8-11(28488)
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ 4-8-12(28489)
मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ 4-8-13(28490)
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ 14 ॥ 4-8-14(28491)
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ 4-8-15(28492)
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ 4-8-16(28493)
जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥ 4-8-17(28494)
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ 18 ॥ 4-8-18(28495)
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ 19 ॥ 4-8-19(28496)
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ॥ 20 ॥ 4-8-20(28497)
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ 21 ॥ 4-8-21(28498)
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ 22 ॥ 4-8-22(28499)
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ॥ 23 ॥ 4-8-23(28500)
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ 4-8-24(28501)
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ 4-8-25(28502)
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ 4-8-26(28503)
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ 4-8-27(28504)
देव्युवाच । 4-8-28x(3010)
शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥ 4-8-28(28505)
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ 4-8-29(28506)
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ 30 ॥ 4-8-30(28507)
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ 31 ॥ 4-8-31(28508)
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ 32 ॥ 4-8-32(28509)
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ॥ 33 ॥ 4-8-33(28510)
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ 34 ॥ 4-8-34(28511)
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ॥ 35 ॥ 4-8-35(28512)
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥] 36 ॥ ॥ 4-8-36(28513)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-8-3 शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् ॥ 3 ॥ 4-8-6 स्तोत्रार्थमेव संभव उद्भवो येषां नाम्नां वरदे इत्यादीनांतैः। आमन्त्र्य संबोध्य ॥ 6 ॥ 4-8-9 पद्मा लक्ष्मीं अत एव नारायणपरिग्रहो विष्णुकान्ता ॥ 9 ॥ 4-8-10 कृष्णच्छविर्नीलमेघस्तेन समा अत एव कृष्णा । अष्टभुजामाह बिभ्रतीति। विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ बाहू ॥ 10 ॥ 4-8-11 तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान् पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः ॥ 11 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|