(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.8. अध्यायः 008
Mahabharata - Virata Parva - Chapter Topics
विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

[वैशम्पायन उवाच। 4-8-0x(3009)(28477)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ 4-8-1(28478)
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ 4-8-2(28479)
कंसविद्रावणकरीमसुराणां क्षयंकरीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ 3 ॥ 4-8-3(28480)
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ॥ 4 ॥ 4-8-4(28481)
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥ 5 ॥ 4-8-5(28482)
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ 6 ॥ 4-8-6(28483)
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ 7 ॥ 4-8-7(28484)
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ 8 ॥ 4-8-8(28485)
भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ 4-8-9(28486)
कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ 4-8-10(28487)
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ 4-8-11(28488)
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ 4-8-12(28489)
मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ 4-8-13(28490)
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ 14 ॥ 4-8-14(28491)
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ 4-8-15(28492)
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ 4-8-16(28493)
जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥ 4-8-17(28494)
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ 18 ॥ 4-8-18(28495)
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ 19 ॥ 4-8-19(28496)
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ॥ 20 ॥ 4-8-20(28497)
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ 21 ॥ 4-8-21(28498)
जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ 22 ॥ 4-8-22(28499)
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ॥ 23 ॥ 4-8-23(28500)
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ 4-8-24(28501)
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ 4-8-25(28502)
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ 4-8-26(28503)
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ 4-8-27(28504)
देव्युवाच । 4-8-28x(3010)
शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥ 4-8-28(28505)
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ 4-8-29(28506)
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ 30 ॥ 4-8-30(28507)
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ 31 ॥ 4-8-31(28508)
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ 32 ॥ 4-8-32(28509)
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ॥ 33 ॥ 4-8-33(28510)
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ 34 ॥ 4-8-34(28511)
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ॥ 35 ॥ 4-8-35(28512)
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥] 36 ॥ ॥ 4-8-36(28513)

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-8-3 शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् ॥ 3 ॥ 4-8-6 स्तोत्रार्थमेव संभव उद्भवो येषां नाम्नां वरदे इत्यादीनांतैः। आमन्त्र्य संबोध्य ॥ 6 ॥ 4-8-9 पद्मा लक्ष्मीं अत एव नारायणपरिग्रहो विष्णुकान्ता ॥ 9 ॥ 4-8-10 कृष्णच्छविर्नीलमेघस्तेन समा अत एव कृष्णा । अष्टभुजामाह बिभ्रतीति। विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ बाहू ॥ 10 ॥ 4-8-11 तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान् पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः ॥ 11 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.